ಶ್ರೀ ವಾಗ್ದೇವೀ ಸ್ತವಃ | Śrī Vāgdevī Stavaḥ
Swami Brahmaatmananda
0:00 / 0:00
ಶ್ರೀ ವಾಗ್ದೇವೀ ಸ್ತವಃ | Śrī Vāgdevī Stavaḥ
2 662 просмотра · Трансляция закончилась 4 нед. назад
Swami Brahmaatmananda
7,07 тыс. подписчиков
2 662 просмотра · Трансляция закончилась 4 нед. назад
श्री वाग्देवी स्तवः
श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचितः
वादे शक्तिप्रदात्री प्रणतजनततेः सन्ततं सत्सभायां
प्रश्नानां दुस्तराणामपि लघु सुसमाधानमाश्वेव वक्तुम् ।
वागीशाद्यैः सुराग्र्यैर्विविधफलकृते सन्ततं पूज्यमाना
वाग्देवी वाञ्छितं मे वितरतु तरसा शृङ्गभूभृन्निवासा ॥ १ ॥
व्याख्यामुद्राक्षमालाकलशसुलिखितै राजदम्भोजपाणिः
काव्यालङ्कारमुख्येष्वपि निशितधियं सर्वशास्त्रेषु तूर्णम् ।
मूकेभ्योऽप्यार्द्रचित्ता दिशति करुणया या जवात्सा कृपाब्धि-
र्वाग्देवी वाञ्छितं मे वितरतु तरसा शृङ्गभूभृन्निवासा ॥ २ ॥
जाड्यध्वान्तार्कपङ्क्तिस्तनुजितरजनीकान्तगर्वागमानां
शीर्षैः संस्तूयमाना मुनिवरनिकरैः सन्ततं भक्तिनम्रैः ।
कारुण्यापारवारांनिधिरगतनयासिन्धुकन्याभिवाद्या
वाग्देवी वाञ्छितं मे वितरतु तरसा शृङ्गभूभृन्निवासा ॥ ३ ॥