श्रीवादिराजतीर्थविरचितम् रुक्मिणीशविजयः -द्वितीयः सर्गः-०१
संस्कृतभणितयः
0:00 / 0:00
श्रीवादिराजतीर्थविरचितम् रुक्मिणीशविजयः -द्वितीयः सर्गः-०१
18 просмотров · 10 дн. назад
संस्कृतभणितयः
574 подписчика
18 просмотров · 10 дн. назад
श्रीवादिराजतीर्थविरचितम् रुक्मिणीशविजयः - द्वितीयसर्गः -०१
ततो यशोदां स्वकुलस्य पुण्य
लसद्यशोदांहि करिष्यमाणः ।
स गोकुलं गोकुलगोपपुञ्ज
विभूषितं प्राविशदब्जनेत्रः ॥ १ ॥
विकीर्णपुष्पाम्बुदलम्बिचन्द्र
महःपताका नववारिसिक्ता ।
फणीन्द्रकण्ठोदररत्नकान्ति
विचित्रिता सा गृहवीथिकासीत् ॥ २ ॥
फणावलीतोरणभाग्विमान
वितानयुक्तोरगराजमौलेः ।
पतत्पयोबिन्दुसिताक्षता सा
स्थली निशीथेपि विभूषितेव ॥ ३ ॥
विमुक्तवर्गाधिपतिं पतिं श्रीः
शिशुं समालोक्य सुलज्जितेव ।
इयेष दोषान्तर एव गन्तुं
स्वयं गृहीतार्भकरम्यरूपा ॥ ४ ॥
हरेः प्रिया तद्भगिनीत्वमद्य
ह्युपेयुषी तत्र न सा स्थिरासीत् ।
मनोज्ञमूर्त्यन्तरतस्तदीय
विशालवक्षस्थलमेत्य तृप्ता ॥ ५ ॥
मुकुन्दसेवार्हफलं स्मतावद्
वहन्निवाथानकदुन्दुभिस्ताम् ।
शिशुस्वरूपां कमलां स्वहस्ते
स बिभ्रदभ्यागमदात्मवासम् ॥ ६ ॥
सुतं यशोदाशयने निधाय
विरिञ्चिपूर्वामरमुख्यतातम् ।
विवेश कंसस्य गृहं स शौरिः
प्रगृह्य तन्मृत्युमिवाम्बिकां ताम् ॥ ७ ॥
प्रभातकाले खलमभ्रगा सा
प्रबोध्य बन्धात्पितरौ वियोज्य ।
हरेर्वियोगोदितचित्तचिन्तां
बिभेद मातुः शयनीयसंस्था ॥ ८ ॥
स्नात्वा पूर्वपयोनिधावचलसत्पीठाधिरूढः करैः
पद्मानि प्रतिगृह्य सान्द्रतिमिराण्युन्मील्य रागावृतः ।
सिञ्जत्पक्षिगणान्निशम्य परमं कृष्णावतारं रवि
स्तत्पूजार्थमिवोदितो व्रजगृहद्वारेषु तान् प्राहिणोत् ॥ ९ ॥