Anyatha Sharanam Nasti (Bhajan) अन्यथा शरणं नास्ति
Sahaja Culture
0:00 / 0:00
Anyatha Sharanam Nasti (Bhajan) अन्यथा शरणं नास्ति
14 313 просмотров · 9 месяцев назад
Sahaja Culture
96,2 тыс. подписчиков
14 313 просмотров · 9 месяцев назад
अन्यथा शरणं नास्ति, त्वमेव शरणं मम ।
हृदयं समर्पयामि, प्राणं समर्पयामि
तव पादपद्मे मातः, सर्वं समर्पयामि ।
त्वमेव साक्षात् हरिप्रिया,त्वमेव माँ वागीश्वरी।
महादुर्गा महाकाली महामाया महेश्वरी ।
भाग्यं समर्पयामि, कर्म समर्पयामि
तव पादपद्मे मातः, सर्वं समर्पयामि ।
स्वयंसाध्या स्वयंसिद्धिः, स्वयंसिद्धा स्वयंप्रभा
सुगुणरत्ना सुकृतकृता, सुमतिगंगा समोज्ज्वला
मानं समर्पयामि, गानं समर्पयामि
तव पादपद्मे मातः, सर्वं समर्पयामि ।
अनिर्वचनीय-आनन्दिनी, सुखकारिणी दुःखहारिणी ।
योगसंस्थापनार्थाय, अविरतविश्व-विहारिणी ।
सङ्घं समर्पयामि, पुण्यं समर्पयामि
तव पादपद्मे मातः, सर्वं समर्पयामि ।
तिमिरावृत दिशाहीनस्य आत्मनः पापनाशिनी।
बहुजनहिताय वाणी ते, शाश्वतसत्य-प्रकाशिनी ।
आद्यं समर्पयामि, अन्त्यं समर्पयामि
तव पादपद्मे मातः, सर्वं समर्पयामि ।
------------------------------------------------------
sahajayogaculture21@gmail.com