Перейти к содержимому

द्वादश ज्योतिर्लिंग सम्पूर्ण स्तोत्रम् – केदारनाथ धाम के दर्शन 🙏🌹🙏

SadaShiva

0:00 / 0:00

द्वादश ज्योतिर्लिंग सम्पूर्ण स्तोत्रम् – केदारनाथ धाम के दर्शन 🙏🌹🙏

23 532 просмотра · 6 л. назад
SadaShiva
29,4 тыс. подписчиков
23 532 просмотра · 6 л. назад
द्वादश ज्योतिर्लिङ्ग स्तोत्रम् लघु स्तोत्रम् सौराष्ट्रे सोमनाधञ्च श्रीशैले मल्लिकार्जुनम् | उज्जयिन्यां महाकालं ओङ्कारेत्वमामलेश्वरम् ‖ पर्ल्यां वैद्यनाधञ्च ढाकिन्यां भीम शङ्करम् | सेतुबन्धेतु रामेशं नागेशं दारुकावने ‖ वारणाश्यान्तु विश्वेशं त्रयम्बकं गौतमीतटे | हिमालयेतु केदारं घृष्णेशन्तु विशालके ‖ एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः | सप्त जन्म कृतं पापं स्मरणेन विनश्यति ‖ सम्पूर्ण स्तोत्रम् सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् | भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ‖ 1 ‖ श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गेऽपि सदा वसन्तम् | तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ‖ 2 ‖ अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् | अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ‖ 3 ‖ कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय | सदैव मान्धातृपुरे वसन्तं ओङ्कारमीशं शिवमेकमीडे ‖ 4 ‖ पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् | सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ‖ 5 ‖ यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च | सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि ‖ 6 ‖ श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसङ्ख्यैः | श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ‖ 7 ‖ याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः | सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ‖ 8 ‖ सानन्दमानन्दवने वसन्तं आनन्दकन्दं हतपापबृन्दम् | वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ‖ 9 ‖ सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे | यद्दर्शनात् पातकं पाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ‖ 10 ‖ महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः | सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ‖ 11 ‖ इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् | वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ‖ 12 ‖ ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण | स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ‖