स्वर्णाकर्षण भैरव स्तोत्र | Swarnakarshan Bhairav Stotram | धन प्राप्ति कर्ज़ मुक्ति
Sanatan Bhajan Yatra
0:00 / 0:00
स्वर्णाकर्षण भैरव स्तोत्र | Swarnakarshan Bhairav Stotram | धन प्राप्ति कर्ज़ मुक्ति
3 695 просмотров · 1 мес. назад
Sanatan Bhajan Yatra
956 подписчиков
3 695 просмотров · 1 мес. назад
#SwarnakarshanBhairav #BhairavStotra #DhanPrapti #swarnakarshana_bhairava #bhairav #lakshmi
॥ श्री स्वर्णाकर्षण भैरव स्तोत्रम ॥
॥ मूल-मन्त्रः ॥
“ॐ ऐं क्लां क्लीं क्लूं हां हीं हूं सः वं आपदुद्धारणाय अजामल-बद्धाय लोकेश्वराय स्वर्णाकर्षण-भैरवाय मम दारिद्र्य-विद्वेषणाय श्रीमहा-भैरवाय नमः।”
॥ श्री मार्कण्डेय उवाच ॥
भगवन् ! प्रमथाधीश ! शिव-तुल्य-पराक्रम ।
पूर्वं मुक्तस्त्वया मन्त्रं, भैरवस्य महात्मनः ॥
इदानीं श्रोतुमिच्छामि, तस्य स्तोत्रमनुत्तमं ।
तत्केनोक्तं पुरा स्तोत्रं, पठनात् तस्य किं फलम् ॥
तत्सर्वं श्रोतुमिच्छामि, ब्रूहि मे नन्दिकेश्वर ॥
॥ श्री नन्दिकेश्वर उवाच ॥
इदं ब्रह्मन् ! महा-भाग, लोकानामुपकारक ।
स्तोत्रं वटुक-नाथस्य, दुर्लभं भुवन-त्रये ॥
सर्व-पाप-प्रशमनं, सर्व-सम्पत्ति-दायकम् ।
दारिद्र्य-शमनं पुंसामापदा-भय-हारकम् ॥
अष्टैश्वर्य-प्रदं नृणां, पराजय-विनाशनम् ।
महा-कान्ति-प्रदं चैव, सोम-सौन्दर्य-दायकम् ॥
महा-कीर्ति-प्रदं स्तोत्रं, भैरवस्य महात्मनः ।
न वक्तव्यं निराचारे, हिं पुत्राय च सर्वथा ॥
शुचये गुरु-भक्ताय, शुचयेऽपि तपस्विने ।
महा-भैरव-भक्ताय, सेविते निर्धनाय च ॥
निज-भक्ताय वक्तव्यमन्यथा शापमाप्नुयात् ।
स्तोत्रमेतत् भैरवस्य, ब्रह्मा-विष्णु-शिवात्मनः ॥
शृणुष्व ब्रूहितो ब्रह्मन् ! सर्व-काम-प्रदायकम् ।
॥ विनियोगः ॥
ॐ अस्य श्रीस्वर्णाकर्षण-भैरव-स्तोत्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीस्वर्णाकर्षण-भैरव-देवता, हीं बीजं, क्लीं शक्तिः, सः कीलकम्, मम सर्व-काम-सिद्ध्यर्थे पाठे विनियोगः ।
॥ ध्यानः ॥
मन्दार-द्रुम-मूल-भाजि विजिते रत्नासने संस्थिते ।
दिव्यं चारुण-चञ्चुकाधर-रुचा देव्याकृतालिंगनः ॥
भक्तेभ्यः कर-रत्न-पात्र-भरितं स्वर्णं दधानो भृशम् ।
स्वर्णाकर्षण-भैरवो भवतु मे स्वर्गापवर्ग-प्रदः ॥
॥ स्तोत्र-पाठ ॥
[Verse - slow vilambit, raga melody, one voice only]
ॐ नमस्तेऽस्तु भैरवाय, ब्रह्मा-विष्णु-शिवात्मने,
नमः त्रैलोक्य-वन्द्याय, वरदाय परात्मने ॥
रत्न-सिंहासनस्थाय, दिव्याभरण-शोभिने ।
नमस्तेऽनेक-हस्ताय, ह्यनेक-शिरसे नमः ।
नमस्तेऽनेक-नेत्राय, ह्यनेक-विभवे नमः ॥
नमस्तेऽनेक-कण्ठाय, ह्यनेकान्ताय ते नमः ।
नमोऽस्त्वनेकैकैश्वर्याय, ह्यनेक-दिव्य-तेजसे ॥
अनेकायुध-युक्ताय, ह्यनेक-सुर-सेविने ।
अनेक-गुण-युक्ताय, महा-देवाय ते नमः ॥
नमो दारिद्र्य-कालाय, महा-सम्पत्-प्रदायिने ।
श्रीभैरवी-प्रयुक्ताय, त्रिलोकेशाय ते नमः ॥
दिगम्बर ! नमस्तुभ्यं, दिगीशाय नमो नमः ।
नमोऽस्तु दैत्य-कालाय, पाप-कालाय ते नमः ॥
सर्वज्ञाय नमस्तुभ्यं, नमस्ते दिव्य-चक्षुषे ।
अजिताय नमस्तुभ्यं, जितामित्राय ते नमः ॥
नमस्ते रुद्र-पुत्राय, गण-नाथाय ते नमः ।
नमस्ते वीर-वीराय, महा-वीराय ते नमः ॥
नमोऽस्त्वनन्त-वीर्याय, महा-घोराय ते नमः ।
नमस्ते घोर-घोराय, विश्व-घोराय ते नमः ॥
नमः उग्राय शान्ताय, भक्तेभ्यः शान्तिं-दायिने ।
गुरवे सर्व-लोकानां, नमः प्रणव-रुपिणे ॥
नमस्ते वाग्-भवाख्याय, दीर्घ-कामाय ते नमः ।
नमस्ते काम-राजाय, योषित्कामाय ते नमः ॥
दीर्घ-माया-स्वरुपाय, महा-माया-पते नमः ।
सृष्टि-माया-स्वरुपाय, विसर्गाय समायिने ॥
रुद्र-लोकेश-पूज्याय, ह्यापदुद्धारणाय च ।
नमोऽजामल-बद्धाय, सुवर्णाकर्षणाय ते ॥
नमो नमो भैरवाय, महा-दारिद्र्य-नाशिने ।
उन्मूलन-कर्मठाय, ह्यालक्ष्या सर्वदा नमः ॥
नमो लोक-त्रैशाय, स्वानन्द-निहिताय ते ।
नमः श्रीबीज-रुपाय, सर्व-काम-प्रदायिने ॥
नमो महा-भैरवाय, श्रीरुपाय नमो नमः ।
धनाध्यक्ष ! नमस्तुभ्यं, शरण्याय नमो नमः ॥
नमः प्रसन्न-रुपाय, ह्यादि-देवाय ते नमः ।
नमस्ते मन्त्र-रुपाय, नमस्ते रत्न-रुपिणे ॥
नमस्ते स्वर्ण-रुपाय, सुवर्णाय नमो नमः ।
नमः सुवर्ण-वर्णाय, महा-पुण्याय ते नमः ॥
नमः शुद्धाय बुद्धाय, नमः संसार-तारिणे ।
नमो देवाय गुह्याय, प्रबलाय नमो नमः ॥
नमस्ते बल-रुपाय, परेषां बल-नाशिने ।
नमस्ते स्वर्ग-संस्थाय, नमो भूलोक-वासिने ॥
नमः पाताल-वासाय, निराधाराय ते नमः ।
नमो नमः स्वतन्त्राय, ह्यनन्ताय नमो नमः ॥
द्वि-भुजाय नमस्तुभ्यं, भुज-त्रय-सुशोभिने ।
नमोऽणिमादि-सिद्धाय, स्वर्ण-हस्ताय ते नमः ॥
पूर्ण-चन्द्र-प्रतीकाश-वदनाम्भोज-शोभिने ।
नमस्ते स्वर्ण-रुपाय, स्वर्णालंकार-शोभिने ॥
नमः स्वर्णाकर्षणाय, स्वर्णाभाय च ते नमः ।
नमस्ते स्वर्ण-कण्ठाय, स्वर्णालंकार-धारिणे ॥
स्वर्ण-सिंहासनस्थाय, स्वर्ण-पादाय ते नमः ।
नमः स्वर्णाभ-पाराय, स्वर्ण-काञ्ची-सुशोभिने ॥
नमस्ते स्वर्ण-जंघाय, भक्त-काम-दुघात्मने ।
नमस्ते स्वर्ण-भक्तानां, कल्प-वृक्ष-स्वरुपिणे ॥
चिन्तामणि-स्वरुपाय, नमो ब्रह्मादि-सेविने ।
कल्पद्रुमाधः-संस्थाय, बहु-स्वर्ण-प्रदायिने ॥
भय-कालाय भक्तेभ्यः, सर्वाभीष्ट-प्रदायिने ।
नमो हेमादि-कर्षिणय, भैरवाय नमो नमः ॥
स्तवेनानेन सन्तुष्टो, भव लोकेश-भैरव ।
पश्य मां करुणाविष्ट, शरणागत-वत्सल ॥
श्रीभैरव धनाध्यक्ष, शरणं त्वां जगाम्यहम् ।
प्रसीद सकलान् कामान्, प्रयच्छ मम सर्वदा ॥
॥ फल-श्रुति ॥
श्रीमहा-भैरवस्येदं, स्तोत्रसूक्तं सु-दुर्लभम् ।
मन्त्रात्मकं महा-पुण्यं, सर्वैश्वर्य-प्रदायकम् ॥
यः पठेत्रित्र्यमेकाग्रं, पातकैः स विमुच्यते ।
लभेते चामला-लक्ष्मीश्चैश्वर्यमवाप्नुयात् ॥
चिन्तामणिमवाप्नोति, धेनुं कल्पतरुं ध्रुवम् ।
स्वर्ण-राशिमवाप्नोति, सिद्धिमेव स मानवः ॥
संध्यायः पठेत् स्तोत्र, दशावृत्या नरोत्तमैः ।
स्वप्ने श्रीभैरवस्तस्य, साक्षाद्भूतोऽतो जगद्-गुरुः ।
स्वर्ण-राशिं ददात्येव, तत्क्षणात्रास्ति संशयः ।
सर्वदा यः पठेत् स्तोत्रं, भैरवस्य महात्मनः ॥
लोक-त्रयं वशीकुर्यात्, अचलां श्रियं चाप्नुयात् ।
न भयं लभते क्वापि, विघ्न-भूतादि-सम्भव ॥
म्रियन्ते शत्रवोऽवश्यमलक्ष्मी-नाशमाप्नुयात् ।
अक्षयं लभते सौख्यं, सर्वदा मानवोत्तमः ॥
अष्ट-पञ्चाशताणच्छो, मन्त्र-राजः प्रकीर्तितः ।
दारिद्र्य-दुःख-शमनं, स्वर्णाकर्षण-कारकः ॥
ययेन संजपेत् धीमान्, स्तोत्रवा प्रपठेत् सदा ।
महा-भैरव-सायुज्यं, स्वान्त-काले वेद्धुवं ॥
॥ इति श्री स्वर्णाकर्षण भैरव स्तोत्रं सम्पूर्णम् ॥
ॐ नमः शिवाय 🔱 | जय भैरव बाबा 🚩