Перейти к содержимому

Nitishtakam || Vidvat Padhdhati || Shloka Vachan || {श्लोक 12-21} || नीतीशतकं विद्वत् पद्धति #tgt

संस्कृत संगम

0:00 / 0:00

Nitishtakam || Vidvat Padhdhati || Shloka Vachan || {श्लोक 12-21} || नीतीशतकं विद्वत् पद्धति #tgt

21 003 просмотра · 3 г. назад
संस्कृत संगम
70,2 тыс. подписчиков
21 003 просмотра · 3 г. назад
@prachidwivedi1103 शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः । तज्जाड्यं वसुधाधिपस्य कवयस्त्वर्थं विनापीश्वराः कुत्स्याः स्युः कुपरीक्षका न मणयो यैरर्घतः पातिताः ॥ १५॥ हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत् सर्वदायत् सर्वदा- ऽप्यर्थिभ्यः प्रतिपाद्यमानमनिषं प्राप्नोति वृद्धिं पराम् ।। कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं येषां तान् प्रतितान् मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥ १६॥ अधिगतपरमार्थान् पण्डितान् पण्डितान् मावमंस्ता- स्तृणमिव लघु लक्ष्मीर्नैव तान् संरुणद्धितान् संरुणद्धि । अभिनवमदलेखाश्यामगण्डस्थलानां न भवति विषतन्तुर्वारणं वारणानाम् ॥ १७॥ अम्भोजिनीवनविहारविलासमेव हंसस्य हन्ति नितरां कुपितो विधाता । न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ १८॥ केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः । वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ १९॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूजिता न तु धनं विद्याविहीनः पशुः ॥ २०॥ क्षान्तिश्चेत् कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां ज्ञातिश्चेदनलेन किं यदि सुहृद् दिव्यौषधैः किं फलम् ।। किं सर्पैर्यदि दुर्जनाः किमु धनैर्विद्या न वन्द्या यदि व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥ २१॥ दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् ।। शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टता ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥ २२॥ जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्तिं सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥ २३॥ जयन्ति ते सुकृतिनः रससिद्धाः कवीश्वराः । नास्ति येषां यशःकाये जरामरणजं भयम् ॥ २४॥ My other channel:-    / @prachidwivedi1103   Please like, comment and share my video and please subscribe to my channel and press the bell icon 🙏🙏🙏🙏🚩🚩🚩🌺🌺🌺🌺🌷🌷🌷🌺🙏🌺🙏🌺🙏🙏🚩🚩