"श्री गणपति अथर्वशीर्ष "
Smita Ved vaani
0:00 / 0:00
"श्री गणपति अथर्वशीर्ष "
13 744 просмотра · 2 месяца назад
Smita Ved vaani
97 подписчиков
13 744 просмотра · 2 месяца назад
ॐ नमस्ते गणपतये ।
त्वमेव प्रत्यक्षं तत्वमसि ।
त्वमेव केवलं कर्तासि ।
त्वमेव केवलं धर्तासि ।
त्वमेव केवलं हर्तासि ।
त्वमेव सर्वं खल्विदं ब्रह्मासि ।
त्व साक्षादात्माऽसि नित्यम् ।।१।।
ऋतं वच्मि । सत्यं वच्मि ।।२।।
अव त्वं माम् । अव वक्तारम् ।
अव श्रोतारम् । अव दातारम् ।
अव धातारम् । अव अनूचानम् ।
अव शिष्यम् । अव पश्चात्तात् ।
अव पुरस्तात् । अवोत्तरात्तात् ।
अव दक्षिणात्तात् । अव चोर्ध्वात्तात् ।
अवाधस्तात् । सर्वतो मां पाहि-पाहि समन्तात् ।।३।।
त्वं वाङ्मयस्त्वं चिन्मय:।
त्वमानन्दमसयस्त्वं ब्रह्ममय:।
त्वं सच्चिदानन्दाद्वितीयोऽसि ।
त्वं प्रत्यक्षं ब्रह्मासि।
त्वं ज्ञानमयो विज्ञानमयोऽसि ।।४।।
सर्वं जगदिदं त्वत्तो जायते ।
सर्वं जगदिदं त्वत्तस्तिष्ठति।
सर्वं जगदिदं त्वयि लयमेष्यति।
सर्वं जगदिदं त्वयि प्रत्येति।
त्वं भूमिरापोऽनलोऽनिलो नभ: ।
त्वं चत्वारि वाक्पदानि।।५।।
त्वं गुणत्रयातीत:। त्वं कालत्रयातीत:।
त्वं देहत्रयातीत:। त्वं मूलाधारस्थितोऽसि नित्यम् ।
त्वं शक्तित्रयात्मक:।
त्वां योगिनो ध्यायन्ति नित्यम् ।
त्वं ब्रह्मा त्वं विष्णुस्त्वं
रुद्रस्त्वं इंद्रस्त्वं अग्निस्त्वं
वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं
ब्रह्मभूर्भुव: स्वरोम् ।।६।।
गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् ।
अनुस्वार: परतर:। अर्धेन्दुलसितम् ।
तारेण रुद्धम् । एतत्तव मनुस्वरूपम् ।
गकार: पूर्वरूपम् । अकारो मध्यमरूपम् । अनुस्वारश्चान्त्यरूपम् । बिन्दुरूत्तररूपम् । नाद: संधानम् । संहितासंधि: । सैषा गणेश विद्या। गणक ऋषि: निचृद् गायत्री छन्द:। गणपतिर्देवता । ॐ गं गणपतये नम: ।।७।।
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् ।।८।।
एकदन्तं चतुर्हस्तं पाशमड्कुशधारिणम् ।
रदं च वरदं हस्तैर्विभ्राणं मूषकध्वजम् ।।
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।
रक्तगन्धानुलिप्ताड्गं रक्तपुष्पै: सुपुजितम् ।।
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।
आविर्भूतं च सृष्ट्यादौ प्रकृते: पुरुषात्परम् ।।
एवं ध्यायति यो नित्यं स योगी योगिनां वर: ।।९।।
नमो व्रातपतये नमो गणपतये नम: प्रमथपतये
नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय
श्रीवरदमूर्तये नम: ।।१०।।
एतदथर्वशीर्षं योऽधीते ।
स ब्रह्मभूयाय कल्पते ।
स सर्व विघ्नैर्न बाध्यते।
स सर्वत: सुखमेधते।
स पञ्चमहापापात्प्रमुच्यते।
सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुञ्जानो अपापो भवति । सर्वत्राधीयानोsपविघ्नो भवति । धर्म-अर्थ-काम-मोक्षं च विन्दति । इदमथर्वशीर्षमशिष्याय न देयम् । यो यदि मोहाद्दास्यति स पापीयान् भवति । सहस्रावर्तनाद् यं यं काममधीते तं तमनेन साधयेत् ।।११।।
अनेन गणपतिमभिषिञ्चति स वाग्मी भवति ।
चतुर्थ्यामनश्नञ्जपति स विद्यावान् भवति ।
इत्यथर्वणवाक्यम् ।
ब्रह्माद्यावरणं विद्यात् ।
न बिभेति कदाचनेति ।।१२।।
यो दूर्वाड्कुरैर्यजति स वैश्रवणोपमो भवति ।
यो लाजैर्यजति स यशोवान् भवति । स मेधावान् भवति ।
यो मोदकसहस्रेण यजति स वाञ्छित फलम् अवाप्नोति ।
य: साज्यसमिद्भि: यजति स सर्वं लभते स सर्वं लभते ।।१३।।
अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ।
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमन्त्रो भवति ।
महाविघ्नात् प्रमुच्यते । महापापात् प्रमुच्यते ।
महादोषात् प्रमुच्यते ।
स सर्वविद् भवति । स सर्वविद् भवति ।
य एवं वेद ।।१४।। इत्युपनिषत्।।