व्यासप्रोक्त पितृस्तोत्रम्
दिव्य ध्वनि
0:00 / 0:00
व्यासप्रोक्त पितृस्तोत्रम्
51 просмотр · 5 дней назад
दिव्य ध्वनि
6 подписчиков
51 просмотр · 5 дней назад
व्यासप्रोक्त पितृस्तोत्रम् is a highly sacred hymn composed by Maharshi Vedavyasa and described in the Brihaddharma Purana (Purva Khanda, Chapter 2). This hymn is dedicated to the greatness, honor, and reverence of parents, elders, teachers, and ancestors. [
Key Points (Summary):
1. Respect for elders and teachers: Mother, father, teacher, elder brother, paternal grandfather, father-in-law, maternal uncle, and maternal grandfather are all regarded as worthy of the respect due to a guru.
2. The supreme greatness of the father: Among all of them, the father is described as the foremost and as the great teacher among teachers.
3. The father is Dharma and Heaven: The father is said to embody righteousness, heaven, and supreme austerity. When the father is pleased, all the gods are said to be pleased as well.
जाबालिरुवाच ।
गुरून् वद महाभाग वेदव्यास जगद्गुरो ।
गुरूणां तारतम्यञ्च कस्मात् किं फलमुच्यते ॥ १॥
व्यास उवाच ।
माता पिता गुरुः श्रेयान् ज्येष्ठभ्राता पितामहः ।
श्वशुरो मातुलश्चैव तथा मातामहः स्मृतः ॥ २॥
पितुर्ज्येष्ठः कनिष्ठश्च भ्राता ज्येष्ठा निजस्वसा ।
पितुःस्वसा जनन्याश्च स्वसा गुरुजनाः स्मृताः ॥ ३॥
पत्न्यः पितामहादीनां तथैव गुरवः स्मृताः ।
एतेषु हि पिता श्रेयान् गुरुरेव महागुरुः ॥ ४॥
पिता धर्मः पिता स्वर्गः पिता हि परमं तपः ।
पितरि प्रीतिमापन्ने प्रीयन्ते सर्वदेवताः ॥ ५॥
पिता यस्य क्वचिद्रुष्टो न तस्य कस्यचिद्गतिः ।
जपो दानं तपो होमः स्नानं तीर्थक्रियाविधिः ।
वृथैव तस्य सर्वाणि कर्माण्यन्यानि कानिचित् ॥ ६॥
करोति सर्वदेवेशं पितरं चानुतप्य यः ।
अनुतापः पितुस्तीव्रं विषं दहति यं सुतम् ।
जपादि विफलं तत्र दग्धक्षित्युप्तवीजवत् ॥ ७॥
पित्रर्थे पुण्यकर्माणि कुर्यात् सर्वाणि सत्सुतः ।
तेनाननुमतोऽप्येवं कुर्वन्नेवावसीदति ॥ ८॥
यत्नात्तु पितरं यस्तु कियत्पुण्यञ्च कारयेत् ।
स तत्पुण्यफलं कोटिगुणमाप्नोत्यसंशयम् ॥ ९॥
शृणु वक्ष्ये पितुः स्तोत्रं विष्णवे ब्रह्मणोदितम् ।
नाभिपद्मोद्भवो येन तुष्टाव पितरं स तम् ॥ १०॥
ब्रह्मोवाच ।
ॐ नमः पित्रे जन्मदात्रे सर्वदेवमयाय च ।
सुखदाय प्रसन्नाय सुप्रीताय महात्मने ॥ ११॥
सर्वयज्ञस्वरूपाय स्वर्गाय परमेष्ठिने ।
सर्वतीर्थावलोकाय करुणासागराय च ॥ १२॥
नमः सदाशुतोषाय शिवरूपाय ते नमः ।
सदापराधक्षमिणे सुखाय सुखदाय च ॥ १३॥
दुर्लभं मानुषमिदं येन लब्धं मया वपुः ।
सम्भावनीयं धर्मार्थे तस्मै पित्रे नमो नमः ॥ १४॥
तीर्थस्नान-तपोहोम-जपादि यस्य दर्शनम् ।
महागुरोश्च गुरवे तस्मै पित्रे नमो नमः ॥ १५॥
यस्य प्रणामस्तवनात् कोटिशः पितृतर्पणम् ।
अश्वमेधशतैस्तुल्यं तस्मै पित्रे नमो नमः ॥ १६॥
इदं स्तोत्रं पितुः पुण्यं यः पठेत् प्रयतो नरः ।
प्रत्यहं प्रातरुत्थाय पितृश्राद्धदिनेऽपि च ॥ १७॥
स्वजन्मदिवसे साक्षात् पितुरग्रे स्थितोऽपि वा ।
न तस्य दुर्लभं किञ्चित् सर्वज्ञतादिवाञ्छितम् ॥ १८॥
नानापकर्म कृत्वापि यः स्तौति पितरं सुतः ।
स ध्रुवं प्रविधायैव प्रायश्चित्तं सुखी भवेत् ।
पितुः प्रीतिकरो नित्यं सर्वकर्माण्यथार्हति ॥ १९॥ २०॥
॥ इति बृहद्धर्मपुराणे पितृमातृभक्तिर्नाम
द्वितीयोऽध्यायान्तर्गतं व्यासप्रोक्तं पितृस्तोत्रं सम्पूर्णम् ।