Перейти к содержимому

नारायणीयम् - अम्बरीषोपाख्यानम्

संस्कृतभणितयः

0:00 / 0:00

नारायणीयम् - अम्बरीषोपाख्यानम्

3 просмотра · 13 часов назад
संस्कृतभणितयः
553 подписчика
3 просмотра · 13 часов назад
नारायणीयम् - अम्बरीषोपाख्यानम् - ३३ वैवस्वताख्यमनुपुत्रनभागजात- नाभागनामकनरेन्द्रसुतोऽम्बरीष: । सप्तार्णवावृतमहीदयितोऽपि रेमे त्वत्सङ्गिषु त्वयि च मग्नमनास्सदैव ॥१॥ त्वत्प्रीतये सकलमेव वितन्वतोऽस्य भक्त्यैव देव नचिरादभृथा: प्रसादम् । येनास्य याचनमृतेऽप्यभिरक्षणार्थं चक्रं भवान् प्रविततार सहस्रधारम् ॥२॥ स द्वादशीव्रतमथो भवदर्चनार्थं वर्षं दधौ मधुवने यमुनोपकण्ठे । पत्न्या समं सुमनसा महतीं वितन्वन् पूजां द्विजेषु विसृजन् पशुषष्टिकोटिम् ॥३॥ तत्राथ पारणदिने भवदर्चनान्ते दुर्वाससाऽस्य मुनिना भवनं प्रपेदे । भोक्तुं वृतश्चस नृपेण परार्तिशीलो मन्दं जगाम यमुनां नियमान्विधास्यन् ॥४॥ राज्ञाऽथ पारणमुहूर्तसमाप्तिखेदा- द्वारैव पारणमकारि भवत्परेण । प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन् क्षिप्यन् क्रुधोद्धृतजटो विततान कृत्याम् ॥५॥ कृत्यां च तामसिधरां भुवनं दहन्ती- मग्रेऽभिवीक्ष्यनृपतिर्न पदाच्चकम्पे । त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते कृत्यानलं शलभयन् मुनिमन्वधावीत् ॥६॥ धावन्नशेषभुवनेषु भिया स पश्यन् विश्वत्र चक्रमपि ते गतवान् विरिञ्चम् । क: कालचक्रमतिलङ्घयतीत्यपास्त: शर्वं ययौ स च भवन्तमवन्दतैव ॥७॥ भूयो भवन्निलयमेत्य मुनिं नमन्तं प्रोचे भवानहमृषे ननु भक्तदास: । ज्ञानं तपश्च विनयान्वितमेव मान्यं याह्यम्बरीषपदमेव भजेति भूमन् ॥८॥ तावत्समेत्य मुनिना स गृहीतपादो राजाऽपसृत्य भवदस्त्रमसावनौषीत् । चक्रे गते मुनिरदादखिलाशिषोऽस्मै त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥९॥ राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान् सम्भोज्य साधु तमृषिं विसृजन् प्रसन्नम् । भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभू- त्सायुज्यमाप च स मां पवनेश पाया: ॥१०॥