Nitishatkam || परोपकारपद्धतिः || {श्लोक (६२-७१) वाचन } || Propkarpaddhati #nitishatakam #vachan #tgt
संस्कृत संगम
0:00 / 0:00
Nitishatkam || परोपकारपद्धतिः || {श्लोक (६२-७१) वाचन } || Propkarpaddhati #nitishatakam #vachan #tgt
6 028 просмотров · 3 г. назад
संस्कृत संगम
70,2 тыс. подписчиков
6 028 просмотров · 3 г. назад
#tgtsanskrit #pgtsanskrit #sanskrit #shlok #vachan #nitishatakam #sanskrit_song
My other channel:-
@_Prachi__Dwivedi_
• Neetishatakam || नीतिशतकम्
• मेघदूतम् {पूर्वमेघ}
अभिज्ञान शाकुन्तलम्
• अभिज्ञानशाकुन्तलम् वाचन || चतुर्थ अंक || {...
उत्तररामचरितम्
• उत्तररामचरितम् वाचन || तृतीय अंक || वाचन {...
भवन्ति नम्रास्तरव: फलोद्गमैर्नवाम्बुभिर्दूरविलम्बिनो धना: ।
अनुभ्दता: सत्पुरुषा: समृद्भि: स्वभाव एवैष परोपकारिणाम् ।।62।। (वशष्थ)
श्रोत्रं श्रुतेनैव न कुण्डलेनदानेन पाणिर्न तु कङ्कणेन ।
विभाति काककय: करुणापराणां परोपकारैर्न तु चन्दनेन ।।63।। (उपजाति)
पद्माकरं दिनकरो विकचीकरोति
चन्द्रो विकासयति कैरवचक्रवालम् ।
नाभ्यर्थितो जलधरोऽपि जलं ददाति
सन्त: स्वयं परहिते विहिताभियोगा ।।64।। (वसन्ततिलका)
एते सत्पुरषा: परार्थपटका: स्वार्थं परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृत: सावार्थाविरोधेन ये।
तोऽमी मानुषराक्षसा: परहुतं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निर्रथकं परहितं ते के न जानीमहे ।।65।। (शार्दूलविक्रीडित)
पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान्प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले
सन्मित्रूलक्षणमिदं प्रवदन्ति सन्त: ।। 66।। (वसन्ततिलका)
क्षीरेणात्मगतोदकाय हि,गुणा दत्ता: पुरा तेऽखिला:
क्षीरोत्तापमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुत: ।
गन्तुं पावकमुन्मनस्तदभवद् दृष्टवा तु मित्रापदं
युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ।।67।। (शार्दूलविक्रीडित)
इत: स्वपिति केशव: कुलमितस्तदीयद्विषाम्
इतश्च शरणार्थिनांशिखरिणां गणा: शेरते।
इतोऽपि वडवानल: सह समस्तसंवर्तकै:
अहो! विततमूर्जितं भरसहं च सिन्धोर्वपु: ।।68।। (पृथ्वी)
झात: कूर्म: स एक: पृथुभुवनभरायार्पितं येन पृष्ठ
श्लाघ्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्विचक्रम् ।
संजातव्यर्थप्का: परहितकरणे नोपरिष्टान्न चाधो
ब्रह्माण्डोदुम्बरान्दर्मशकरदपरे जन्तवो जातनष्टा: ।।69।। (स्रग्धरा)
तृश्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथा:
सत्यं बूह्मनुयाहि साधुपदवीं सेवस्व विद्वज्जनम् ।
मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं
कीर्तिं पालय दु:खिते कुरुन्दयाभेतत्सतां लक्षणम् ।।70।। (शार्दूलविक्रीडित)
मनसि वचसि काये पुण्यपीयूषपूर्णा-
स्न्निभुवनमुंपकारश्रेणिभि: प्रीणयन्त: ।
परगुणस्परमाणूनार्वतीकृत्य नित्यं
निजहृदि विकसन्त: सन्ति सन्त: कियन्त: ।।71।। (मालिनी)
Please like, comment and share my video 🙏🏻🙏🏻🙏🏻🌺🌺
And please subscribe to my channel and press the bell icon 🙏🏻🙏🏻🙏🏻🌺🌺🌺🌺🌺🌺
🌺🌺🙏🏻🙏🏻🌺 ॐ आदित्यायः नमः 🌺🙏🏻🙏🏻🌺🌺