Перейти к содержимому

ब्रह्म ज्ञानावलीमाला l Brahma Jyanavali Mala l Adi Shankaracharya l Madhvi Madhukar Jha

Madhvi Madhukar

0:00 / 0:00

ब्रह्म ज्ञानावलीमाला l Brahma Jyanavali Mala l Adi Shankaracharya l Madhvi Madhukar Jha

80 296 просмотров · 2 года назад
Madhvi Madhukar
1,12 млн подписчиков
80 296 просмотров · 2 года назад
ब्रह्म ज्ञानावलीमाला - आदि शंकराचार्य विरचित् सकृच्छ्रवणमात्रेण ब्रह्मज्ञानं यतो भवेत् । ब्रह्मज्ञानावलीमाला सर्वेषां मोक्षसिद्धये ॥ 1॥ असंगोऽहमसंगोऽहमसंगोऽहं पुनः पुनः । सच्चिदानंदरूपोऽहमहमेवाहमव्ययः ॥ 2॥ नित्यशुद्धविमुक्तोऽहं निराकारोऽहमव्ययः । भूमानंदस्वरूपोऽहमहमेवाहमव्ययः ॥ 3॥ नित्योऽहं निरवद्योऽहं निराकारोऽहमुच्यते । परमानंदरूपोऽहमहमेवाहमव्ययः ॥ 4॥ शुद्धचैतन्यरूपोऽहमात्मारामोऽहमेव च । अखंडानंदरूपोऽहमहमेवाहमव्ययः ॥ 5॥ प्रत्यक्चैतन्यरूपोऽहं शांतोऽहं प्रकृतेः परः । शाश्वतानंदरूपोऽहमहमेवाहमव्ययः ॥ 6॥ तत्त्वातीतः परात्माहं मध्यातीतः परः शिवः । मायातीतः परंज्योतिरहमेवाहमव्ययः ॥ 7॥ नानारूपव्यतीतोऽहं चिदाकारोऽहमच्युतः । सुखरूपस्वरूपोऽहमहमेवाहमव्ययः ॥ 8॥ मायातत्कार्यदेहादि मम नास्त्येव सर्वदा । स्वप्रकाशैकरूपोऽहमहमेवाहमव्ययः ॥ 9॥ गुणत्रयव्यतीतोऽहं ब्रह्मादीनां च साक्ष्यहम् । अनंतानंतरूपोऽहमहमेवाहमव्ययः ॥ 10॥ अंतर्यामिस्वरूपोऽहं कूटस्थः सर्वगोऽस्म्यहम् । परमात्मस्वरूपोऽहमहमेवाहमव्ययः ॥ 11॥ निष्कलोऽहं निष्क्रियोऽहं सर्वात्माद्यः सनातनः । अपरोक्षस्वरूपोऽहमहमेवाहमव्ययः ॥ 12॥ द्वंद्वादिसाक्षिरूपोऽहमचलोऽहं सनातनः । सर्वसाक्षिस्वरूपोऽहमहमेवाहमव्ययः ॥ 13॥ प्रज्ञानघन एवाहं विज्ञानघन एव च । अकर्ताहमभोक्ताहमहमेवाहमव्ययः ॥ 14॥ निराधारस्वरूपोऽहं सर्वाधारोऽहमेव च । आप्तकामस्वरूपोऽहमहमेवाहमव्ययः ॥ 15॥ तापत्रयविनिर्मुक्तो देहत्रयविलक्षणः । अवस्थात्रयसाक्ष्यस्मि चाहमेवाहमव्ययः ॥ 16॥ दृग्दृश्यौ द्वौ पदार्थौ स्तः परस्परविलक्षणौ । दृग्ब्रह्म दृश्यं मायेति सर्ववेदांतडिंडिमः ॥ 17॥ अहं साक्षीति यो विद्याद्विविच्यैवं पुनः पुनः । स एव मुक्तः सो विद्वानिति वेदांतडिंडिमः ॥ 18॥ घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च । तद्वद्ब्रह्म जगत्सर्वमिति वेदांतडिंडिमः ॥ 19॥ ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः । अनेन वेद्यं सच्छास्त्रमिति वेदांतडिंडिमः ॥ 20॥ अंतर्ज्योतिर्बहिर्ज्योतिः प्रत्यग्ज्योतिः परात्परः । ज्योतिर्ज्योतिः स्वयंज्योतिरात्मज्योतिः शिवोऽस्म्यहम् ॥ 21॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ ब्रह्मज्ञानावलीमाला संपूर्णा ॥ Song Credits Song : Brahm Gyanawali Lyrics : Adi Shankaracharya Singer : Madhvi Madhukar Jha Music label: SubhNir Productions Music Director: Nikhil Bisht, Rajkumar Sitar : Rahis Khan Flute : Kiran Kumar Video Editing: Vickey Shah