Перейти к содержимому

श्री भू वराह स्तोत्रम् | Shri Bhu Varaha Stotram | भगवान वराह स्तोत्र | Sacred Chant

Vivid Bhakti

0:00 / 0:00

श्री भू वराह स्तोत्रम् | Shri Bhu Varaha Stotram | भगवान वराह स्तोत्र | Sacred Chant

53 просмотра · 2 недели назад
Vivid Bhakti
127 подписчиков
53 просмотра · 2 недели назад
श्री भू वराह स्तोत्रम् | Shri Bhu Varaha Stotram ॥ श्री भू वराह स्तोत्रम् ॥ भगवान श्री विष्णुको वराह अवतारप्रति समर्पित यो पवित्र *श्री भू वराह स्तोत्रम्* श्रीमद्भागवत महापुराणको तृतीय स्कन्धमा वर्णित दिव्य स्तुति हो। यस स्तोत्रमा ऋषिहरूले भगवान श्री वराहदेवको दिव्य स्वरूप, यज्ञमय रूप, माता भूदेवीको उद्धार तथा उहाँको अनन्त महिमाको स्तुति गरेका छन्। 🙏 श्रद्धापूर्वक श्रवण गर्नुहोस्। 🕉️ ध्यान, पूजा, साधना तथा आध्यात्मिक वातावरणका लागि उपयुक्त। 🌺 श्री वराह भगवानको कृपा सबैमा रहोस्। *ॐ नमो भगवते वराहाय ।* ━━━━━━━━━━━━━━━━━━ 📜 *श्री भू वराह स्तोत्रम्* 📖 श्रीमद्भागवत महापुराण 🕉️ संस्कृत स्तोत्र पाठ श्री भू वराह स्तोत्रम् ऋषय ऊचु । जितं जितं तेऽजित यज्ञभावना त्रयीं तनूं स्वां परिधुन्वते नमः । यद्रोमगर्तेषु निलिल्युरध्वराः तस्मै नमः कारणसूकराय ते ॥ 1 ॥ रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम् । छन्दांसि यस्य त्वचि बर्हिरोम- स्स्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम् ॥ 2 ॥ स्रुक्तुण्ड आसीत्स्रुव ईश नासयो- रिडोदरे चमसाः कर्णरन्ध्रे । प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणन्ते भगवन्नग्निहोत्रम् ॥ 3 ॥ दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयो दयनीय दंष्ट्रः । जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः सभ्यावसथ्यं चितयोऽसवो हि ते ॥ 4 ॥ सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवः । सत्राणि सर्वाणि शरीरसन्धि- स्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः ॥ 5 ॥ नमो नमस्तेऽखिलयन्त्रदेवता द्रव्याय सर्वक्रतवे क्रियात्मने । वैराग्य भक्त्यात्मजयाऽनुभावित ज्ञानाय विद्यागुरवे नमॊ नमः ॥ 6 ॥ दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भूस्सभूधरा । यथा वनान्निस्सरतो दता धृता मतङ्गजेन्द्रस्य स पत्रपद्मिनी ॥ 7 ॥ त्रयीमयं रूपमिदं च सौकरं भूमण्डले नाथ तदा धृतेन ते । चकास्ति शृङ्गोढघनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः ॥ 8 ॥ संस्थापयैनां जगतां सतस्थुषां लोकाय पत्नीमसि मातरं पिता । विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः ॥ 9 ॥ कः श्रद्धधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम् । न विस्मयोऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽति विस्मयम् ॥ 10 ॥ विधुन्वता वेदमयं निजं वपु- र्जनस्तपः सत्यनिवासिनो वयम् । सटाशिखोद्धूत शिवाम्बुबिन्दुभि- र्विमृज्यमाना भृशमीश पाविताः ॥ 11 ॥ स वै बत भ्रष्टमतिस्तवैषते यः कर्मणां पारमपारकर्मणः । यद्योगमाया गुण योग मोहितं विश्वं समस्तं भगवन् विधेहि शम् ॥ 12 ॥ इति श्रीमद्भागवते महापुराणे तृतीयस्कन्धे श्री वराह प्रादुर्भावोनाम त्रयोदशोध्यायः ।श्री भू वराह स्तोत्रम् ऋषय ऊचु । जितं जितं तेऽजित यज्ञभावना त्रयीं तनूं स्वां परिधुन्वते नमः । यद्रोमगर्तेषु निलिल्युरध्वराः तस्मै नमः कारणसूकराय ते ॥ 1 ॥ रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम् । छन्दांसि यस्य त्वचि बर्हिरोम- स्स्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम् ॥ 2 ॥ स्रुक्तुण्ड आसीत्स्रुव ईश नासयो- रिडोदरे चमसाः कर्णरन्ध्रे । प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणन्ते भगवन्नग्निहोत्रम् ॥ 3 ॥ दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयो दयनीय दंष्ट्रः । जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः सभ्यावसथ्यं चितयोऽसवो हि ते ॥ 4 ॥ सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवः । सत्राणि सर्वाणि शरीरसन्धि- स्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः ॥ 5 ॥ नमो नमस्तेऽखिलयन्त्रदेवता द्रव्याय सर्वक्रतवे क्रियात्मने । वैराग्य भक्त्यात्मजयाऽनुभावित ज्ञानाय विद्यागुरवे नमॊ नमः ॥ 6 ॥ दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भूस्सभूधरा । यथा वनान्निस्सरतो दता धृता मतङ्गजेन्द्रस्य स पत्रपद्मिनी ॥ 7 ॥ त्रयीमयं रूपमिदं च सौकरं भूमण्डले नाथ तदा धृतेन ते । चकास्ति शृङ्गोढघनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः ॥ 8 ॥ संस्थापयैनां जगतां सतस्थुषां लोकाय पत्नीमसि मातरं पिता । विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः ॥ 9 ॥ कः श्रद्धधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम् । न विस्मयोऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽति विस्मयम् ॥ 10 ॥ विधुन्वता वेदमयं निजं वपु- र्जनस्तपः सत्यनिवासिनो वयम् । सटाशिखोद्धूत शिवाम्बुबिन्दुभि- र्विमृज्यमाना भृशमीश पाविताः ॥ 11 ॥ स वै बत भ्रष्टमतिस्तवैषते यः कर्मणां पारमपारकर्मणः । यद्योगमाया गुण योग मोहितं विश्वं समस्तं भगवन् विधेहि शम् ॥ 12 ॥ इति श्रीमद्भागवते महापुराणे तृतीयस्कन्धे श्री वराह प्रादुर्भावोनाम त्रयोदशोध्यायः । यदि यो स्तोत्र मन परेमा भिडियो *Like, Share र Subscribe* गर्न नभुल्नुहोस्। 🙏 हरिः ॐ तत्सत् 🙏 #श्रीभूवराहस्तोत्रम् #भूवराह #वराहस्तोत्रम् #वराहभगवान #VarahaStotram #BhuVaraha #LordVaraha #Vishnu #VishnuAvatar #SanskritStotram #SanskritChant #SanatanDharma #HinduDevotional #Bhagavatam #DevotionalChant