Перейти к содержимому

Sri Lakshmi Stotram | Laghu Sthotra Mala Volume 1 | Composed by Sri Sri Krishnapremi Swamigal

mythili rajaraman

0:00 / 0:00

Sri Lakshmi Stotram | Laghu Sthotra Mala Volume 1 | Composed by Sri Sri Krishnapremi Swamigal

8 742 просмотра · 5 лет назад
mythili rajaraman
12 тыс. подписчиков
8 742 просмотра · 5 лет назад
#srisrianna #mythilirajaraman #lakshmi LAKSHMI PLAYLIST:    • Lakshmi   LYRICS IN TAMIL : https://drive.google.com/file/d/1Zzif... श्रीलक्ष्मी स्तोत्रं श्रीरित्येव प्रोच्यते याहि रूढ्या श्रेयोदायिन्याश्रितानां जनानाम् । श्रीनाथत्वेनैव विष्णोः परत्वम् लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ १ ॥ चन्द्रे सूर्ये पुष्करे सागरे च वीणानादे विष्णुवक्षःस्थले च । गेहे गेहे सज्जनानां वसन्ती लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ २ ॥ लब्ध्वा विष्णोर्नित्यसंयोगमेषा वैकुण्ठाख्ये दिव्य लोके वसन्ती । पत्युर्लीलां प्रेरयन्ती कटाक्षैः लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ ३ ॥ तत्तत्कर्मालोचनेनैव दातुं सौख्यं दुःखं संप्रवृत्ते मुकुन्दे । स्वच्छन्दं या संविधत्ते कटाक्षम् लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ ४ ॥ आविर्भूता क्षीरसिन्धोश्च मध्यात् सर्वान् देवान् सम्मुखांस्थानतीत्य । वव्रे विष्णुं यास्वयं देवदेवं लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ ५ ॥ पुत्री भूत्वा या भृगोःप्रेमपूर्वम् भर्तारं तं लोकभर्तारमेव । भक्ता वव्रे सातुसौभग्यदात्री लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ ६ ॥ पार्श्वे स्थित्वा पार्वतीं भारतीं च भक्त्या नित्यं चामरं वीजयन्तीं । पश्यन्ती या प्रेमभवं करोति लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ ७ ॥ लब्ध्वा वासं विष्णुवक्षःस्थलेपि स्थानं दत्वा वैजयन्त्याः सपत्न्याः । या सा नित्यं पादसेवां करोति लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ ८ ॥ पद्माक्षी या पद्महस्ता च पद्मा पद्मासीना पद्मनाभस्य पत्नी । पद्मं शङ्खं दातुकामानिधिं सा लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ ९ ॥ शुभ्रक्षौमाऽलङ्कृता शोभनाङ्गी हैमैर्दिव्यैर्भूषणैर्भूषिता च । हेमाङ्गी या हेमकुम्भस्तनी सा लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ १० ॥ वल्लीतुल्या मल्लिका मालिकाढ्या लीला लोला लोलरोलंब नेत्री । नित्या शुद्धा नित्यतारुण्य मूर्तिः लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ ११ ॥ प्रह्लादस्य प्रेमभक्तिं जगत्यां नूनं लोके दर्शयन्तीव भीता । त्यक्त्वा नाथं या सुदूरं दधाव लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ १२ ॥ चञ्चू नुन्नावायसेनापि तस्मै भद्रं चक्रे सान्त्वयन्ती स्वनाथं । क्ष्यामाः कन्या या क्षमा रूपिणी सा लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ १३ ॥ उत्कृष्टत्वं या सपत्न्याः क्षमाया दातुं प्रेम्णाकन्यकाभूत् स्वयंहि । भूत्वा विष्णोर्ज्येष्टपत्नी तथापि लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ १४ ॥ त्यक्त्वा राज्यं प्रस्थितं काननं या दृष्ट्वा रामं संययौ तेन साकम् । मन्दं पद्भ्यां मालती कोमलाभ्यां लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ १५ ॥ वीरं रामं वञ्चयित्वा वने या लङ्कां नीता तर्जिता राक्षसीभिः । रक्षोपायं राक्षसायाप्युवाच लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ १६ ॥ आत्मस्पर्शात् सर्व भक्षस्य हृत्वा लङ्कादाहे जातमग्नेश्च दोषं । पातिव्रत्यं दर्शयामास या सा लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ १७ ॥ भर्तुः पार्श्वे संनिविष्टा सहर्षं साम्राज्ये स्वे साधु पट्टाभिषिक्ता । लोकानां स्वश्रेयसं या करोति लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ १८ ॥ वाल्मीकेरप्याश्रमे देवरेण त्यक्ता रामस्याज्ञया या विशुद्धा । पुत्राभ्यां शुश्रावकीर्तिं स्व भर्तुः लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ १९ ॥ भैष्मी भूत्वा वासुदेवस्य नित्यं श्रुत्वा कीर्तिं साधुभिः कीर्तितं या । वव्रे दूतं प्रेषयित्वा तमेव लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ २० ॥ भर्तुःसेवामष्टधाऽनेकधा च धृत्वा रूपं सादरं द्वारकायां । चक्रे या सा विश्वरूपानुरूपा लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ २१ ॥ श्रुत्वा भर्तुर्वाक्यमुक्तं च भीता तेनैवान्ते सान्त्विता प्रेमपूर्वं । भक्त्या साधु प्रत्युवाच प्रियं या लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ २२ ॥ साध्वीधर्मं साधु लोके चरन्ती प्रद्युम्नादीन्पुत्रपौत्रान् प्रसूय । अङ्कं भर्तुर्भूषितं या चकार लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ २३ ॥ रङ्गे काञ्च्यां वेङ्कटाद्रौ वनाद्रौ साकं भर्त्रा दिव्यदेशेषु वासम् । कुर्वन्ती या सेव्यते भक्तबृन्दैः लक्ष्मीर्नित्यं मङ्गलं मे तनोतु ॥ २४ ॥ एतन्नित्यं यः पठेत्भक्तिपूर्वं लक्ष्मीस्तोत्रं कीर्तितं प्रेमिकेण । लक्ष्मीभर्तुः प्रेमकारुण्यपात्रं भूत्वा नूनं प्राप्नुयात् सर्वसौख्यम् ॥ २५ ॥