Перейти к содержимому

आत्मज्ञानं परं ब्रह्म (ऋभुप्रोक्तं आत्मज्ञाननिरूपणम्)

दिव्य ध्वनि

0:00 / 0:00

आत्मज्ञानं परं ब्रह्म (ऋभुप्रोक्तं आत्मज्ञाननिरूपणम्)

14 просмотров · 1 день назад
दिव्य ध्वनि
6 подписчиков
14 просмотров · 1 день назад
This phrase serves as the formal title for specific sections or chapters within the Ribhu Gita, an ancient text deeply revered in Advaita Vedanta philosophy. ऋभुप्रोक्तं आत्मज्ञाननिरूपणम् आत्मज्ञानं व्रतं नित्यमात्मज्ञानं परं सुखम् । आत्मज्ञानं परानन्दमात्मज्ञानं परायणम् ॥ आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महाव्रतम् । आत्मज्ञानं स्वयं वेद्यमात्मज्ञानं महाधनम् ॥ आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महत्सुखम् । आत्मज्ञानं महानात्मा आत्मज्ञानं जनास्पदम् ॥ आत्मज्ञानं महातीर्थमात्मज्ञानं जयप्रदम् । आत्मज्ञानं परं ब्रह्म आत्मज्ञानं चराचरम् ॥ आत्मज्ञानं परं शास्त्रमात्मज्ञानमनूपमम् । आत्मज्ञानं परो योग आत्मज्ञानं परा गतिः ॥ आत्मज्ञानं परं ब्रह्म इत्येवं दृढनिश्चयः । आत्मज्ञानं मनोनाशः आत्मज्ञानं परो गुरुः ॥ आत्मज्ञानं चित्तनाश आत्मज्ञानं विमुक्तिदम् । आत्मज्ञानं भयनाशमात्मज्ञानं सुखावहम् ॥ आत्मज्ञानं महातेज आत्मज्ञानं महाशुभम् । आत्मज्ञानं सतां रूपमात्मज्ञानं सतां प्रियम् ॥ आत्मज्ञानं सतां मोक्षमात्मज्ञानं विवेकजम् । आत्मज्ञानं परो धर्म आत्मज्ञानं सदा जपः ॥ आत्मज्ञानस्य सदृशमात्मविज्ञानमेव हि । आत्मज्ञानेन सदृशं न भूतं न भविष्यति ॥ आत्मज्ञानं परो मन्त्र आत्मज्ञानं परं तपः । आत्मज्ञानं हरिः साक्षादात्मज्ञानं शिवः परः ॥ आत्मज्ञानं परो धाता आत्मज्ञानं स्वसम्मतम् । आत्मज्ञानं स्वयं पुण्यमात्मज्ञानं विशोधनम् ॥ आत्मज्ञानं महातीर्थमात्मज्ञानं शमादिकम् । आत्मज्ञानं प्रियं मन्त्रमात्मज्ञानं स्वपावनम् ॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं आत्मज्ञाननिरूपणं सम्पूर्णम् ॥