कक्षा- 17 तर्कभाषा- अर्थनिरूपणम् (द्रव्यनिरूपणे- पृथिवी-आपः तेजश्च) डॉ. जनार्दन सुवेदी
संस्कृतसारः Sanskrit Sar
0:00 / 0:00
कक्षा- 17 तर्कभाषा- अर्थनिरूपणम् (द्रव्यनिरूपणे- पृथिवी-आपः तेजश्च) डॉ. जनार्दन सुवेदी
122 просмотра · 1 год назад
संस्कृतसारः Sanskrit Sar
8,35 тыс. подписчиков
122 просмотра · 1 год назад
#tarkabhasha #nyayashastra
५५.( अर्थनिरूपणम्)
अर्थाः षट् पदार्थाः । ते च द्रव्यगुणकर्मसामान्यविशेषसमवायाः । प्रमाणादयो यद्यप्यत्रैवान्तर्भवन्ति तथापि प्रयोजनवशाद् भेदेन कीर्तनम् ।
५६.( अर्थनिरूपणे द्रव्यनिरूपणम्)
तत्र समवायिकारणं द्रव्यम् । गुणाश्रयो वा । तानि च द्रव्याणि पृथिव्यप्ते- जोवाय्वाकाशकालदिगात्ममनांसि नवैव ।
५७.( द्रव्यनिरूपणे पृथिवीनिरूपणम्)
तत्र पृथिवीत्वसामान्यवती पृथिवी । काठिन्य कोमलत्वादावयवसंयोग- विशेषेण युक्ता । घ्राण—शरीर-मृत्पिण्ड-पाषाण-वृक्षादिरूपा।रूप-रस-गन्ध-स्पर्श-संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्व-अपरत्व-गुरुत्व-द्रवत्व-संस्कारवती । सा च द्विविधा । नित्याऽनित्या च । नित्या परमाणुरूपा,अनित्या कार्यरूपा । द्विविधायाः पृथिव्या रूप-रस-गन्ध-स्पर्शा अनित्याः पाकजाश्च । पाकस्तु तेजः संयोगः, तेन पृथिव्याः पूर्वरूपादयो नश्यन्त्यन्ये जन्यन्त इति पाकजाः ।
५८.( द्रव्यनिरूपणे अप्-निरूपणम्)
अप्त्वसामान्ययुक्ता आपः । रसनेन्द्रियशरीरसरित्समुद्रहिमकरकादिरूपाः। गन्धवर्जस्नेहयुक्तपूर्वोक्तगुणवत्यः । नित्या अनित्याश्च । नित्यानां रूपादयो नित्या एव अनित्यानां रूपादयोऽनित्या एव ।
५९.( द्रव्यनिरूपणे तेजोनिरूपणम्)
तेजस्त्वसामान्यवत् तेजः । चक्षुःशरीरसवितृसुवर्णवह्निविद्युदादिप्रभेदम् । रूप-स्पर्श-संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्व-अपरत्व-द्रवत्व-संस्कारवत् । नित्यमनित्यं च पूर्ववत् ।तच्चतुर्विधम् । १.उद्भूतरूपस्पर्शम् । २.अनुद्भूतरूपस्पर्शम् । ३.अनुद्भूतरूपमुद्भूतम्पर्शम् । ४.उद्भूतरूपमनुद्भूतस्पर्शञ्चेति ।
उद्भूतरूपस्पर्शं यथा सौरादितेजः पिण्डीभूतं तेजो वह्नधादिकम् ।
सुवर्णं तु उद्भूताभिभूतरूपस्पर्शं । तदनुद्भूतरूपत्वेऽचाक्षुषं स्याद, अनुद्भूतस्पर्शत्वे त्वचा न गृह्येत । अभिभवस्तु बलवत्सजातीयेन पार्थिवरूपेण स्पर्शेन च कृतः । अनुद्भूतरूपस्पर्श तेजो यथा चक्षुरिन्द्रियम् । अनुद्भूतरूपमुद्भूतस्पर्श यथा तप्तवारिस्थं तेजः । उद्भूत- रूपमनुद्भूतस्पर्शं यथा प्रदीपप्रभामण्डलम् ।