Перейти к содержимому

Purvmegh || Shlok Vachan || (11-20 श्लोक) || Meghdutam Vachan || मेघदूतम् #kalidas #meghdut #vachan

संस्कृत संगम

0:00 / 0:00

Purvmegh || Shlok Vachan || (11-20 श्लोक) || Meghdutam Vachan || मेघदूतम् #kalidas #meghdut #vachan

18 509 просмотров · 3 г. назад
संस्कृत संगम
70,2 тыс. подписчиков
18 509 просмотров · 3 г. назад
#shlok #sanskrit #tgt #tgtsanskrit #meghdut #vachan कर्तुं यच्च प्रभवति महीमुच्छिलिन्ध्रामवन्ध्यां तच्छ्रुत्व अ ते श्रवणसुभगं गर्जितं मानसोत्काः । आ कैलासाद्बिसकिसलयच्छेदपाथेयवन्तः सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११॥ आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु । काले काले भवति भवतो यस्य संयोगमेत्य स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो वाष्पमुष्णम् ॥ १२॥ मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपं संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीनः क्षीणः परिलघु पयः स्रोतसं चोपभुज्य ॥ १३॥ अद्रेः श‍ृङ्गं हरति पवनः किं स्विदित्युन्मुखीभिर् द्र्ष्टोत्साहच्चकितचकितं मुग्धसिद्धाङ्गनाभिः । स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ १४॥ त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः । सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं किंचित्पश्चाद्व्रज लघुगतिर्भूय एवोत्तरेण ॥ १६॥ रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत् पुरस्ताद् वल्मीकाग्रात् प्रभवति वल्मीकाग्रात् धनुष्खण्डमाखण्डलस्य । येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेशस्य विष्णोः ॥ १५॥ त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः । न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७॥ स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः । रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ १९॥ छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैः त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे । नूनं यास्यत्यमरमिथुनप्रेक्षणीयमवस्थां मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १८॥ तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिः जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः । अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २०॥ कालिदास रचित मेघदूत ( पूर्वमेघ ) || श्लोक- १ - १०    • Purvmegh || Shlok Vachan || (1-10 श्लोक)  ...   My other channel:-    / @prachidwivedi1103   Email - dwivedipranjal581@gmail.com Please like, comment and share my video and please subscribe to my channel and press the bell icon 🙏🙏🙏🙏🚩🚩🚩🌺🌺🌺🌺🌷🌷🌷🌺🙏🌺🙏🌺🙏🙏🚩🚩