Перейти к содержимому

ಶ್ರೀ ವಾಗ್ವಾದಿನೀ ಸ್ತೋತ್ರಂ | Śrī Vāgvādinī Stotram

Swami Brahmaatmananda

0:00 / 0:00

ಶ್ರೀ ವಾಗ್ವಾದಿನೀ ಸ್ತೋತ್ರಂ | Śrī Vāgvādinī Stotram

3 537 просмотров · 7 дн. назад
Swami Brahmaatmananda
7,39 тыс. подписчиков
3 537 просмотров · 7 дн. назад
शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचितं श्रीवाग्वादिनीस्तोत्रम् वरदाप्यहेतुकरुणाजन्मावनिरपि पयोजभवजाये । किं कुरुषेन कृपां मयि वद वद वाग्वादिनि स्वाहा ॥ १॥ किं वा ममास्ति महती पापततिस्तत्प्रभेदने तरसा । किं वा न तेऽस्ति शक्तिर्वद वद वाग्वादिनि स्वाहा ॥ २॥ किं जीवः परमशिवाद्भिन्नोऽभिन्नोऽथ भेदश्च । औपाधिकः स्वतो वा वद वदवाग्वादिनि स्वाहा ॥ ३॥ वियदादिकं जगदिदं सर्वं मिथ्याऽथवा सत्यम् । मिथ्यात्वधीः कथं स्याद्वद वद वाग्वादिनि स्वाहा ॥ ४॥ ज्ञानं कर्म च मिलितं हेतुर्मोक्षेऽथवा ज्ञानम् । तज्ज्ञानं केन भवेद्वद वदवाग्वादिनि स्वाहा ॥ ५॥ ज्ञानं विचारसाध्यं किं वा योगेन कर्मसाहस्रैः । कीदृक्सोऽपि विचारो वद वद वाग्वादिनि स्वाहा ॥ ६॥