Перейти к содержимому

श्रीवादिराजतीर्थविरचितम् रुक्मिणीशविजयः तृतीयः सर्गः -०४- श्रीकृष्णस्य नामकरणम्

संस्कृतभणितयः

0:00 / 0:00

श्रीवादिराजतीर्थविरचितम् रुक्मिणीशविजयः तृतीयः सर्गः -०४- श्रीकृष्णस्य नामकरणम्

2 просмотра · 1 дн. назад
संस्कृतभणितयः
574 подписчика
2 просмотра · 1 дн. назад
श्रीवादिराजतीर्थविरचितम् रुक्मिणीशविजयः - तृतीयः सर्गः -०३ स्तनोत्थदुग्धेन सुतृप्तमेनं निरूपयंन्त्याः स हरिर्जगन्ति । प्रदर्शयामास न तृप्तिरस्मात् उदारदेहस्य ममेति शिक्षन् ॥१६॥ ​मुखे स लोकान् खलु लोकयित्वा तदन्तरेऽम्बाम् सगृहां सनाथाम् । अखण्डयत् पुत्रमतिं जनन्यामयोजयद् विश्वपितृत्व बुद्धिम् ॥१८॥ ​न नाम कुर्वन्ति ममेति नूनं स पूतनादीन् विनिहत्य मातुः । प्रदर्श्य विश्वं जठरे स्वशक्त्या बहूनि नामानि बभार बालः ॥ १८ ॥ रोम्णां हर्षणकारिणि श्रवणतः पापौघविध्वंसिनि प्रेम्णा चिन्तयतां विचित्रविमलश्लाघ्यार्थसन्धायिनि । सञ्जाते भुवि रुक्मिणीशविजये सद्वादिराजोदिते सञ्जातः सुरमण्डलीषु महितः सर्गस्तृतीयो मुदाम् ॥ ६८ ॥