श्रीवादिराजतीर्थविरचितम् रुक्मिणीशविजयः तृतीयः सर्गः-०१
संस्कृतभणितयः
0:00 / 0:00
श्रीवादिराजतीर्थविरचितम् रुक्मिणीशविजयः तृतीयः सर्गः-०१
25 просмотров · 6 дн. назад
संस्कृतभणितयः
574 подписчика
25 просмотров · 6 дн. назад
श्रीवादिराजतीर्थविरचितम् रुक्मिणीशविजयः - तृतीयः सर्गः- ०१
अथापरो दैत्यकदम्बकासुरिवोद्धतो वातशरीरधारी।
प्रगृह्य कृष्णं गगनं जगाम स्वनाशयोग्यस्थलकाङ्क्षयेव ॥१॥
दुस्तर्कायितशर्कराभिरमलं चक्षुः स मुष्णन् गवाम्
आवासे वसतां सतामुरुतमो विस्तारयन् वारयन्।
तद्वाक्यश्रवणं कठोरकुटिलध्वानैर्यशोदासुतं
दैत्योगूहदागमान्तललनागर्भं कुवादीव तम् ॥२॥
तदा खलस्कोत्पतनं स शौरिः
हृदाऽनुमेने पतितस्य दूरात्।
गिरीन्द्रकल्लोल्पतितात्ममूर्त्या
शरीरमाचूर्णयितुं धियेव ॥३॥
हरिं स संस्थाप्य हृदि स्वकीये
परिभ्रमन् व्योम्नि मुहुः श्वसंश्च।
गरं निपीय भ्रमितान्तरात्मा
सरोधियाऽभ्रं प्रविशन्निवास्ते ॥४॥
मुरद्विषं मूर्ध्नि निधाय विष्णोः
पदं प्रवेष्टुं त्वरया गतोऽपि।
असौ पपातामरवैर्यधस्तात्
अयोग्यकामस्य कथं न पातः ॥५॥
स वातरूपी दितिजो मुकुन्द
भरासहिष्णुर्निपपात भूमौ।
तथा हि वातस्य जवेऽधिकोऽपि
कथं न्नु विश्वम्भरमुद्बिभर्ति ॥६॥
चक्षुःशौर्यफलं जगाम परिवृत्ताक्षः प्रभोरोजसा
विष्वक्सम्भ्रमणेन दत्ततमसो विभ्रान्तमूर्धा फलम्।
साधूनां हृदयार्तिदानफलितं क्लेशं प्रपन्नः क्षितौ
मातुः पातकरः परस्य स खलः पाषाणपृष्ठेऽपतत् ॥७॥
आलोलहैमवरदामवतीं वितान-
जालावलम्बिशुभमौक्तिकरम्यमालाम्।
दोलां विधाय तदुपर्यधिरोप्य बालं
सालोक्यसौख्यमलभिष्ट हृदा यशोदा ॥ ८ ॥
दोलाविलासचलितालकशोभिफालं
बालं शुचिस्मितसुधारसशोभितास्यम्।
श्यामं समीक्ष्य समयं किल शम्मयं सा
तेने क्वणत्कनकनूपुरशोभिपादम् ॥ ९ ॥
गण्डं वराङ्गुलिदलैर्लघु चालयन्ती
मन्दस्मिताननमथो परिरम्भयन्ती।
सान्द्रस्तनस्रुतपयः किल पाययन्ती
नन्दस्य राज्ञ्यभवदित्थमहर्नयन्ती ॥ १० ॥