Перейти к содержимому

श्रीवादिराजतीर्थविरचितम् रुक्मिणीशविजयः - प्रथमः सर्गः -०३

संस्कृतभणितयः

0:00 / 0:00

श्रीवादिराजतीर्थविरचितम् रुक्मिणीशविजयः - प्रथमः सर्गः -०३

26 просмотров · 11 дн. назад
संस्कृतभणितयः
574 подписчика
26 просмотров · 11 дн. назад
श्रीवादिराजतीर्थविरचितम् महाकाव्यम् - रुक्मिणीशविजयः -०३ तदैव शेषोऽजनि वायुभक्षः सहस्त्रनेत्रोपि तदैव नूनं । शतक्रतुः सुप्तिविदूरभावा बभूवुरस्वप्नपदाश्च देवाः ॥१९॥ रसा पिपासोग्रभराशनाया विषह्य विष्णुं मनसाऽचलेन । तदानुधावन्त्यचलेति सर्वं सहेति नूनं जगदेजगत्याम् ॥२०॥ सहस्रकार्येषु भवान् समर्थः सहस्रनेत्राननपाणिपादः । इतीव विज्ञापयितुं विरिञ्चः स्तुतिं स पुंसूक्तगतां ततान ॥२१॥ तच्चित्तेङ्कुरितः सुभक्तिलतया श्लिष्टः प्रमोदाश्रुभिः सिक्तः सत्पुलकालिमूलविततः कायप्रभापल्लवः । ईषन्मीलितनेत्रकुड्मलयुतः शाखासहस्रोर्जितः प्राप्तः श्रीरमणद्विजेन फलितस्तद्ध्यानकल्पद्रुमः ॥२२ || ततः प्रसन्नः करुणाम्बुराशिः सुरान् समाश्वास्य विरिञ्चपूर्वान् । धरां गतक्लेशभरां विधाय स्वकीयमायां हरिरित्यवोचत् ॥ २३ ॥ देवेषु धाता प्रभुरस्य लक्ष्मीः तस्याः प्रभुः सोहमितीव शंसन्। आज्ञामजस्यैव ददावदृश्यो विज्ञेयमूर्तिः स्फुटमिन्दिरायाः ॥२४॥ त्वमेत्य देवक्युदरस्थगर्भं निधेहि रोहिण्युदरे स्वशक्त्या । इतीरिता तं रमणं रमा सा प्रदक्षिणीकृत्य तथाकरोत्तत् ॥२५॥ आज्ञापयामास पुरा स शेषं जज्ञे स रोहिण्युदरोदयाद्रेः। सम्प्रेषयन्ति स्म नरैनरेन्द्राः शय्यां स्वकीयां पुरतः प्रयाणे ॥२६॥ केशात्मना सन्निहितः स तस्मिन् श्रीशोग्रजत्वं स्वयमेव नूनं । धत्ते विधत्ते बलभद्र‌मातुर्नित्यं स्वमातृत्वसुखं सुखात्मा ॥२७॥ बलात्प्रगृह्य स्वकपाटपालौ निशाचरौ भूतलमेत्य दृप्तौ । नृतस्करौ तौ विनिहत्य विष्णुर्निजौ निनीषन्निव गां गतोभूत् ॥ २८ ॥ न गर्भवासो मम निर्मलस्येत्यदो बुधान् बोधयितुं हृदेव । फणीश्वरं गर्भगतं विधाय पुनः स्वयं सन्निहितो बभूव ॥२९ ॥ गर्भेप्यदभ्रात्म सुखेकमूर्तिम् अभ्येत्य पद्मासनमुख्यदेवाः । गीर्भिर्भवद्गर्भनिवासजार्तिनिर्भङ्गसिध्यर्थमिवास्तुवंस्तम् ॥३०॥