Перейти к содержимому

श्रीवादिराजतीर्थविरचितम् रुक्मिणीशविजयः - प्रथमः सर्गः -०१

संस्कृतभणितयः

0:00 / 0:00

श्रीवादिराजतीर्थविरचितम् रुक्मिणीशविजयः - प्रथमः सर्गः -०१

204 просмотра · 11 дн. назад
संस्कृतभणितयः
574 подписчика
204 просмотра · 11 дн. назад
श्रीवादिराजतीर्थविरचितम् महाकाव्यम् - रुक्मिणीशविजयः -०१ श्रीवेदान्तमहाचलं हि परितः संयोज्य सूत्राहिपम् सद्वातागमपोषितात्महृदयं तत्पूर्वपक्षासुरैः । सिद्धान्तोक्तिसुरेश्वरैश्च मथितो यः कृष्णदुग्धाम्बुधिः स्वीयानाममृतं प्रयच्छति स मां पायाद्गुणोद्यन्मणिः ॥१॥ सच्छास्त्रोदितवर्त्मना पदमिदं ध्यायन्मदङ्काङ्कितो मन्मन्त्रं जप शास्त्रसम्पदमथो दास्यामि भाग्यैः सह । तत्तत्त्वान्यपि बोधयामि तदनु प्राप्यो मदङ्घ्रिर्भवेद् इत्याघोषयतीव यः करचयैस्तं वाजिवक्त्रं भजे ॥२॥ श्रये हयमुखं श्राव्यकाव्यमार्गसमाप्तये । सरागयोगिपूगोक्तस्तोत्रतोत्रवशं महः ॥३॥ सिञ्जन्नूपुरशोभिपादकमलां मन्दस्मितोद्यन्मुखीम् कञ्जाक्षीम् कुचभारभीरुविलसन्मध्यां क्वणत्कङ्कणाम् । शम्ब्वायैः परिसेवितां सुवसनां जाम्बूनदालङ्कृतां अम्बां तां प्रणतोस्मि कृष्णरमणीं लम्बालकां रुक्मिणीम् ॥४॥ सत्सङ्घमानससरोवरमध्यवर्तीम् कृष्णाङ्घ्रिचारुकमलार्पित चित्त वृत्तिः। शास्त्रातिमञ्जुपदरञ्जितरम्यसंसत् अस्माकहृत्सरसिजेऽस्तु स मध्वहंसः ॥५॥ ताटङ्कद्वयशोभिकर्णयुगलं भ्राजद्दयावीक्षणं पूर्णेन्दुद्युति विद्रुमाधररुचा व्यामिश्रमन्दस्मितम् । ईषत्कुञ्चितकुन्तलं सतिलकं नासोल्लसन्मौक्तिकं भूयात्कूर्मसदृक्षगण्डयुगलं वाणीमुखं श्रेयसे ॥६॥ श्रीनाथकीर्त्यम्बुजसेव्यगन्धं प्राणः स सङ्ग्रह्य विहर्तुमीष्टे । सोऽहं तदीयागमविस्तृतं तद्वाणीमुखं वासयितुं वृणोमि ॥७॥ हयस्यनासापुटजातवात विघातधूताघ पलालजातः । मुनीशवागीशसुत सुरम्यां हरेः कथां शंसति वादिराजः ॥८॥ अपण्डितेनापि मयार्जितेयं मुकुन्दलीला कविकण्ठमाला । अकौशलेन ग्रथितेति जातिप्रसूनमालां किमु सन्त्यजन्ति ॥९॥ अपि प्रमादागतदोषलेशामिमां कवित्वश्रियमाद्रियध्वम् । बुधा विदग्धैः किमुपेक्षणीया पयोब्धिजा चञ्चलताख्यदोषात् ॥१०॥